॥ ॐ नमः शिवाय ॥
नाग पंचमी एवं नाग देवता पूजन विधि
(कालसर्प दोष एवं सर्पभय शान्ति प्रयोग)
१. पूजन स्थल एवं पूर्व तैयारी
- स्थान: घर के पूजा मन्दिर में शिवलिंग, शालग्राम शिला, नागयंत्र अथवा सर्पयंत्र स्थापित कर पूजन सम्पन्न करें या नाग/शिव मंदिर जाएं।
- सफाई व अर्पण: मन्दिर की साफ-सफाई करें तथा तांबे, चांदी या स्वर्ण का नाग-नागिन का जोड़ा अर्पित करें।
- जलाभिषेक: 108 लोटे दुग्धमिश्रित जल से शिवलिंग का अभिषेक करें। तत्पश्चात चन्दन से शिवलिंग पर सर्पाकार आकृति बनाएं।
२. नाग देवता ध्यानम्
अनन्तपद्म पत्राद्यं फणानेकभ्रतोज्ज्वलम्।
दिव्याम्बरधरं देवं रत्नकुण्डल मण्डितम्॥ १॥
नानारत्नपरिक्षिप्तं मुकुटं द्युतिरंजितम्।
फणमणिसहस्रोद्यै रसङ्ख्यै पन्नगोत्तमे॥ २॥
नानाकन्या सहस्रेण समन्तात्परिवारितम्।
दिव्याभरणं दिप्तांगं दिव्यचन्दन चर्चितम्॥ ३॥
कालाग्निमिव दुर्धर्षं तेजसादित्य सन्निभम्।
ब्रह्माण्डाधार भूतं त्वां यमुनातीर वासिनम्॥ ४॥
भजेऽहंदोष शान्त्यैत्र पूजये कार्यसाधकम्।
आगच्छ कालसर्पाख्य दोषं मम निवारयः॥ ५॥
३. षोडशोपचार अर्पण मंत्र
- आसनम्: नवकुलाधिपं शेषं शुभ्रकच्छप वाहनम्। नानारत्न समायुकतं आसनं प्रतिगृह्यताम्॥
- पाद्यम्: अनन्त प्रिय शेषं च जगदाधार विग्रह। पाद्यग्रहाणभक्तयात्वं काद्रवेय नमोऽस्तुते॥
- अर्घ्यम्: काश्यपेयं महाघोरं मुनिभिर्वन्दित प्रभो। अर्घ्यं गृहाण सर्वज्ञ भक्त्या मां फलदायक॥
- आचमनीयम्: सहस्रणरूपेण वसुधारक प्रभो। गृहाणाचमनं दिव्यं पावनं च सुशीतलम्॥
- पंचामृत स्नानम्: पंचामृत गृहाणेदं पावनं स्वभिषेचनम्। बलभद्रावतारेण क्षेमं कुरु मम प्रभो॥
- वस्त्रम्: कौशेय युग्मदेवेश प्रीत्या तव मयार्पितम्। पन्नगाधीश नागेन्द्र तार्क्ष्यशत्रो नमोऽस्तुते॥
- यज्ञोपवीतम्: सुवर्ण निर्मितं सूत्रं पीतं कण्ठोपहारकम्। अनेकरत्न संयुक्तं सर्पराज नमोऽस्तुते॥
४. प्रमुख नाग एवं नागिनी देवता पूजन
(प्रत्येक नाम के साथ अक्षत, रोली और पुष्प अर्पित करें)
(क) प्रमुख नाग पूजन:
- ॐ शेषाय नमः
- ॐ वासुकाये नमः
- ॐ कर्कोटकाय नमः
- ॐ शंखाय नमः
- ॐ ऐरावताय नमः
- ॐ कम्बलाय नमः
- ॐ धनंजयाय नमः
- ॐ महानीलाय नमः
- ॐ पद्माय नमः
- ॐ अश्वतराय नमः
- ॐ तक्षकाय नमः
- ॐ एलापर्णायै नमः
- ॐ महापद्मायै नमः
- ॐ धृतराष्ट्रायै नमः
- ॐ बलाहकायै नमः
- ॐ शंखपालायै नमः
- ॐ महाशंखायै नमः
- ॐ पुष्पद्रंष्ट्रायै नमः
- ॐ शुभाननायै नमः
- ॐ शंकुरोमायै नमः
- ॐ बहुलायै नमः
- ॐ वामनायै नमः
- ॐ पाणिन्धै नमः
- ॐ कपिलायै नमः
- ॐ दुर्मुखायै नमः
- ॐ पतंजल्यै नमः
(ख) नागिनी देवता पूजन:
- ॐ जरत्कार्यै नमः
- ॐ जगद्गौर्यै नमः
- ॐ मनसादेव्यै नमः
- ॐ सिद्धयोगिन्यै नमः
- ॐ वैष्णव्यै नमः
- ॐ नागभागिन्यै नमः
- ॐ शैव्यै नमः
- ॐ नागेश्वर्यै नमः
- ॐ जरत्कारूप्रियायै नमः
- ॐ आस्तीकमातातै नमः
- ॐ विषहरायै नमः
- ॐ महाज्ञानयुतायै नमः
(ग) कालीय नाग पूजन:
कालीय नाम नागसौ विषरूपो भयंकरः।
नारायणेन संम्पृष्टो दोषो क्षेमकशे भव॥
ॐ भूर्भुवः स्वः कालीय सर्पाय नमः।
५. अंगदेवता पूजनम्
- पादौ: ॐ सहस्रधारिण्यै नमः
- गुल्फौ: ॐ अनघाय नमः
- जंघौ: ॐ विषदंताय नमः
- जानु: ॐ मंदगतये नमः
- कटिं: ॐ कृष्णाय नमः
- नाभिं: ॐ पित्रे नमः
- उदरं: ॐ श्वेताय नमः
- स्तनौ: ॐ उरगाय नमः
- भुजौ: ॐ कालिकाय नमः
- कण्ठं: ॐ जम्बूखण्डाय नमः
- मुखं: ॐ द्विजिह्वाय नमः
- ललाटे: ॐ मणिभूषणाय नमः
- शिरं: ॐ शेषाय नमः
- सर्वांगं: ॐ अनन्ताय नमः
६. नवनाग स्तोत्रम्
अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम्।
शंखपालं धृतराष्ट्रं तक्षकं कालियं तथा॥
एतानि नवनामानि नागानां च महात्मनाम्।
सायंकाले पठेन्नित्यं प्रातःकाले विशेषतः।
तस्मै विषभयं नास्ति सर्वत्र विजयी भवेत्॥
७. सर्पसूक्तम्
- ब्रह्मलोके च ये सर्पाः शेषनाग पुरोगमाः। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
- विष्णुलोके च ये सर्पाः वासुकिः प्रमुखायः। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
- काद्रवेयाश्च ये सर्पाः मातृभक्ति परायणाः। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
- इन्द्रलोके च ये सर्पाः तक्षको प्रमुखायः। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
- सत्यलोके च ये सर्पाः वासुकिना च रक्षिताः। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
- मलये चैव ये सर्पाः कर्कोटः प्रमुखायः। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
- समुद्रतीरे ये सर्पाः ये सर्पाः जलवासिनः। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
- रसातले च ये सर्पाः अनन्तादि महाबलाः। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
- सर्पसत्रे तु ये सर्पा आस्तिकेने च रक्षिताः। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
- धर्मलोके च ये सर्पाः वैतरण्यां समाश्रिताः। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
- पर्वताणां च ये सर्पाः दरीसन्धिषु संस्थिताः। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
- खाण्डवस्य तथा दाहे स्वर्गं ये च समाश्रिताः। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
- पृथिव्यां चैव ये सर्पाः ये च साकेतवासिनः। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
- सर्वग्रामेषु ये सर्पाः वसन्ति सर्वे स्वच्छन्दाः। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
- ग्रामे वा यदि वारण्ये ये सर्पाः प्रचरन्ति च। नमोऽस्तुतेभ्यः सर्पेभ्यः सुप्रीताः मम सर्वदा॥
८. नाग गायत्री मंत्र
‘ॐ नवकुल नागाय विद्महे विषदंताय धीमहि तन्नो सर्पः प्रचोदयात्।’
९. विशेष नियम एवं उपाय
- नागपंचमी व्रत: नागपंचमी का व्रत रखें तथा मंदिर की सफाई एवं नाग पूजन करें।
- छत्र अर्पण: जिस शिवलिंग पर शेषनाग छत्र न हो, वहां तांबे अथवा चांदी का छत्र अर्पित करें।
- अंगूठी धारण: मध्यमा उंगली में सर्पाकार चांदी की अभिमंत्रित अंगूठी पहनें।
- राहु-केतु मंत्र व दान: बुधवार को मूली का दान करें (मंत्र: ॐ रां राहवे नमः) एवं गुरुवार को केतु मंत्र (ॐ कें केतवे नमः) का जप करें।
- सर्प रक्षा: संभव हो तो सपेरे को जीवित सर्प का मूल्य देकर उसे जंगल में मुक्त कराएं।
॥ इति श्री नाग देवता पूजन विधि सम्पूर्णम् ॥